________________
* श्रीगणेशाय नमः
॥ ॐ नमो बृहस्पतये । नमस्तस्मै ब्रह्मणे । विष्णवे नमः ॥
अथ स्कन्दपुराणस्थमाहेश्वरखण्डे द्वितीयं कौमारिकाखण्डम्
प्रथमोऽध्यायः
मुनीनामुग्रश्रवसा सम्बादे पञ्चतीर्थविषये प्रश्नस्तत्र पार्थद्वारा पञ्चाप्सरःसमुद्धारवर्णनम् श्रीमुनय ऊचुः
दक्षिणार्णवतीरेषु यानितीर्थानिपञ्च च । तानिब्रूहि विशालाक्षवर्णयंत्यतितानिच सर्वतीर्थफलं येषु नारदाद्या वदन्ति च ।
तेषां चरितमाहात्म्यं श्रोतुमिच्छामहे वयम् ॥ २ ॥
उग्रश्रवा उवाच
शृणुध्वमत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम् । द्वैपायनो यन्मम चाह पूर्व हर्षाम्बुरोमोद्गमवर्षिताङ्गः ॥ ३ ॥ कुमारगीता गाथाऽत्र श्रूयतां मुनिसत्तमाः !!
या सर्वदेवैर्मुनिभिः पितृभिश्च प्रपूजिता ॥ ४ ॥
मध्वाचारस्तम्भतीर्थयोनिषेवेतमानवः । नियतंतस्यवासःस्यादुद्ब्रह्मलोकेयथामम